-->

Gyan Deep Info विभिन्न उपयोगी शासनादेश (Govt. Orders) उपलब्ध कराने का एक प्रयास है

MP Board कक्षा 10वीं संस्कृत मॉडल पेपर 2026 – सेट D

MP Board कक्षा 10वीं संस्कृत मॉडल पेपर 2026 – सेट D

 Class 10th Sanskrit Model Paper Set D 

MP Board कक्षा 10वीं संस्कृत मॉडल पेपर 2026 – सेट D

माध्यमिक शिक्षा मंडल, मध्य प्रदेश द्वारा आयोजित बोर्ड परीक्षा 2026 की तैयारी हेतु संस्कृत मॉडल पेपर – सेट D एक महत्वपूर्ण अभ्यास सामग्री है।

  • ✔ नवीन परीक्षा पैटर्न पर आधारित
  • ✔ वस्तुनिष्ठ + लघु + दीर्घ उत्तरीय प्रश्न
  • ✔ संधि, समास, कारक, शब्दरूप, धातुरूप अभ्यास
  • ✔ अपठित गद्यांश एवं अनुवाद प्रश्न

📚 संभावित संरचना:

  • खण्ड A – वस्तुनिष्ठ प्रश्न
  • खण्ड B – लघु उत्तरीय प्रश्न
  • खण्ड C – दीर्घ उत्तरीय / व्याकरण / लेखन

नियमित अभ्यास एवं सही रणनीति से संस्कृत विषय में उच्च अंक प्राप्त करना आसान हो सकता है।

Sanskrit Model Paper 10th (Set-D) - Sandipani Vidyalaya

कक्षा 10वीं - संस्कृत

(मॉडल पेपर: सेट-D)

Created by: D Septa | पूर्णांक: 75 | समय: 3 घंटे

खण्डः 'अ' (वस्तुनिष्ठ प्रश्नाः - 30 अंकाः)
प्र.1. उचितं विकल्पं चित्वा लिखत (शब्दरूपाणि 4 + अव्ययाः 2): (1×6 = 6 अंकाः)
(i) 'फले' इत्यस्मिन् पदे का विभक्तिः अस्ति?
(अ) प्रथमा (ब) सप्तमी (स) तृतीया (द) षष्ठी
👉 (ब) सप्तमी (एकवचन)

(ii) 'राज्ञः' इत्यस्मिन् पदे वचनं अस्ति-
(अ) एकवचनम् (ब) द्विवचनम् (स) बहुवचनम् (द) कोऽपि न
👉 (अ) एकवचनम् (पञ्चमी/षष्ठी)

(iii) 'बालकात्' इत्यस्मिन् पदे विभक्तिः अस्ति-
(अ) चतुर्थी (ब) पञ्चमी (स) द्वितीया (द) तृतीया
👉 (ब) पञ्चमी

(iv) 'रमायै' इत्यस्मिन् पदे विभक्तिः अस्ति-
(अ) चतुर्थी (ब) तृतीया (स) षष्ठी (द) सप्तमी
👉 (अ) चतुर्थी

(v) 'अहं अपि आपणं गच्छामि' अत्र अव्ययम् अस्ति-
(अ) अहं (ब) आपणं (स) अपि (द) गच्छामि
👉 (स) अपि

(vi) अधोलिखितेषु अव्ययपदं अस्ति-
(अ) बालकः (ब) अजा (स) कुत्र (द) नदी
👉 (स) कुत्र
प्र.2. प्रदत्तशब्दैः रिक्तस्थानानि पूरयत (धातुरूपाणि 4 + उपसर्गाः 2): (1×6 = 6 अंकाः)
(गच्छेयुः, वदिष्यति, अपिबत्, लभन्ते, दुष्, अधि)
(i) 'गम्' धातोः विधिलिङ् लकारस्य प्रथमपुरुषः बहुवचनं ________ भवति।
👉 गच्छेयुः

(ii) 'वद्' धातोः लृट्लकारस्य प्रथमपुरुषः एकवचनं ________ अस्ति।
👉 वदिष्यति

(iii) 'पा' धातोः लङ्लकारस्य प्रथमपुरुषः एकवचनं ________ अस्ति।
👉 अपिबत्

(iv) 'लभ्' धातोः लट्लकारस्य प्रथमपुरुषः बहुवचनं ________ अस्ति।
👉 लभन्ते

(v) 'दुष्कर्म' इत्यस्मिन् पदे ________ उपसर्गः अस्ति।
👉 दुष्

(vi) 'अधिकारः' इत्यस्मिन् पदे ________ उपसर्गः अस्ति।
👉 अधि
प्र.3. युग्ममेलनं कुरुत (सन्धयः 3 + समासाः 3): (1×6 = 6 अंकाः)
(i) सज्जनः   -> (क) अव्ययीभावः समासः
(ii) निश्चलः   -> (ख) कर्मधारयः समासः
(iii) सूर्योदयः   -> (ग) द्विगुः समासः
(iv) यथाशक्ति   -> (घ) व्यंजनसन्धिः
(v) महापुरुषः   -> (ङ) गुणस्वरसन्धिः
(vi) पञ्चवटी   -> (च) विसर्गसन्धिः
उचितमेलनम्:
(i) सज्जनः → (घ) व्यंजनसन्धिः (सत् + जनः)
(ii) निश्चलः → (च) विसर्गसन्धिः (निः + चलः)
(iii) सूर्योदयः → (ङ) गुणस्वरसन्धिः (सूर्य + उदयः)
(iv) यथाशक्ति → (क) अव्ययीभावः समासः
(v) महापुरुषः → (ख) कर्मधारयः समासः
(vi) पञ्चवटी → (ग) द्विगुः समासः
प्र.4. एकपदेन उत्तरत (प्रत्ययाः 3 + पाठगत प्रश्न 3): (1×6 = 6 अंकाः)
(i) 'विहाय' इत्यस्मिन् पदे कः प्रत्ययः?
ल्यप्

(ii) 'गन्तुम्' इत्यस्मिन् पदे कः प्रत्ययः?
तुमुन्

(iii) 'गतः' अत्र कः प्रत्ययः?
क्त

(iv) कुशलवौ कं उपसृत्य प्रणमतः?
रामम्

(v) बुद्धिमती कुत्र व्याघ्रं ददर्श?
गहनकानने

(vi) मनुष्याणां शरीरस्थो महान् रिपुः कः?
आलस्यम्
प्र.5. शुद्धवाक्यानां समक्षं 'आम्' अशुद्धवाक्यानां समक्षं 'न' इति लिखत: (1×6 = 6 अंकाः)
(i) 'श्वेतः अश्वः' धावति। अत्र 'श्वेतः' विशेषणम् अस्ति। (आम्)
(ii) 'वनम्' इत्यस्य पर्यायपदं 'काननम्' अस्ति। (आम्)
(iii) 'पाषाणः' इत्यस्य पर्यायपदं 'जलम्' अस्ति। (न)
(iv) 'बुद्धिमान्' इत्यस्य विलोमपदं 'मूर्खः' अस्ति। (आम्)
(v) 'दूषितम्' इत्यस्य विलोमपदं 'मलिनम्' अस्ति। (न)
(vi) 'मधुरा वाणी' अत्र 'वाणी' विशेष्यपदम् अस्ति। (आम्)
खण्डः 'ब' (लघुत्तरीय प्रश्नाः - 2 अंकाः)
प्र.6. कविः किमर्थं प्रकृतेः शरणम् इच्छति?
अथवा
अस्माकं पर्यावरणे किं किं दूषितम् अस्ति?
अत्र धरातले जीवितं दुर्वहं जातम्, अतः कविः प्रकृतेः शरणम् इच्छति।
अस्माकं पर्यावरणे वायुमण्डलं, जलं, भक्ष्यं, धरातलं च सर्वं दूषितम् अस्ति।
प्र.7. व्याघ्रः किं विचार्य पलायितः?
अथवा
लोके महतो भयात् कः मुच्यते?
'इयं व्याघ्रमारी काचित्' इति विचार्य व्याघ्रः पलायितः।
लोके महतो भयात् बुद्धिमान् मुच्यते।
प्र.8. कृषकः किं करोति स्म?
अथवा
नराणां प्रथमः शत्रुः कः?
कृषकः बलीवर्दाभ्यां क्षेत्रकर्षणं करोति स्म।
नराणां प्रथमः शत्रुः क्रोधः अस्ति।
प्र.9. वस्तुतः चौरः कः आसीत्?
अथवा
निर्धनः जनः कथं वित्तम् उपार्जितवान्?
वस्तुतः चौरः आरक्षी (ग्रामारक्षी) एव आसीत्।
निर्धनः जनः भूरि (अत्यधिकं) परिश्रम्य वित्तम् उपार्जितवान्।
प्र.10. अन्ते सर्वे मिलित्वा कस्य राज्याभिषेकाय तत्पराः भवन्ति?
अथवा
सरसः शोभा केन भवति?
अन्ते सर्वे मिलित्वा उल्लूकस्य राज्याभिषेकाय तत्पराः भवन्ति।
सरसः शोभा एकेन राजहंसेन भवति।
प्र.11. प्रश्ननिर्माणं कुरुत (कोऽपि द्वौ):
(i) महानगरेषु वाहनानां अनन्ताः पङ्क्तयः धावन्ति।
(ii) चौरस्य पादध्वनिना अतिथिः प्रबुद्धः।
(i) कुत्र / केषु वाहनानां अनन्ताः पङ्क्तयः धावन्ति?
(ii) कस्य पादध्वनिना अतिथिः प्रबुद्धः?
प्र.12. कः कं प्रति कथयति (कोऽपि एकः):
(i) "यदि एवं तर्हि मां निजगले बद्ध्वा चल सत्वरम्।"
(ii) "वत्स! किमर्थं रोदिषि?"
(i) जम्बुकः (शृगालः) → व्याघ्रं प्रति।
(ii) इन्द्रःसुरभिं प्रति।
प्र.13. वाच्यपरिवर्तनं कुरुत (कोऽपि एकः):
(i) लतया गीतं गीयते। (कर्तृवाच्ये)
(ii) त्वं किं करोषि? (कर्मवाच्ये)
(i) लता गीतं गायति।
(ii) त्वया किं क्रियते?
प्र.14. स्वपाठ्यपुस्तकात् एकं सुभाषितानि श्लोकं लिखत (यः अस्मिन् प्रश्नपत्रे न स्यात्)।
"आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति॥"
प्र.15. अशुद्धकारकवाक्यानां शुद्धिः (कोऽपि एकः):
(i) सः ईश्वरं नमति।
(ii) छात्राः कन्दुके क्रीडन्ति।
(i) सः ईश्वराय नमति। (नमः के योग में चतुर्थी)
(ii) छात्राः कन्दुकेन क्रीडन्ति। (साधन में तृतीया)
प्र.16. रिक्तस्थानानि पूरयत (कोऽपि द्वौ):
(सदा, भृशं, स्थितप्रज्ञः)
(i) इदानीं वायुमण्डलं ________ प्रदूषितम् अस्ति।
(ii) बकः अविचलः ________ इव तिष्ठति।
(i) भृशं (अत्यधिक)
(ii) स्थितप्रज्ञः
प्र.17. कथाक्रमसंयोजनम्:
(1) मार्गे सा एकं व्याघ्रं ददर्श।
(2) बुद्धिमती पितुर्गृहं प्रति चलिता।
(3) व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच।
(4) व्याघ्रः भयाकुलचित्तः नष्टः।
सही क्रम:
1. (2) बुद्धिमती पितुर्गृहं प्रति चलिता।
2. (1) मार्गे सा एकं व्याघ्रं ददर्श।
3. (3) व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच।
4. (4) व्याघ्रः भयाकुलचित्तः नष्टः।
खण्डः 'स' (3 अंकाः)
प्र.18. गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-
"न्यायाधीशः बङ्किमचन्द्रः आसीत्। स उभाभ्यां पृथक्-पृथक् विवरणं श्रुतवान्। सर्वं वृत्तम् अवगत्य सः तं निर्दोषं अमान्यत आरक्षिणं च दोषभाजनम्। किन्तु प्रमाणाभावात् सः निर्णयितुं न शक्नोत्। ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान्।"
(i) न्यायाधीशः कः आसीत्? (ii) सः आरक्षिणं किं अमान्यत? (iii) 'श्रुतवान्' पदे कः प्रत्ययः?
अथवा
"विचित्रैव दैवगतिः। तस्यामेव रात्रौ तस्मिन् गृहे कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः। तत्र निहितां एकं मञ्जूषाम् आदाय पलायितः।"
(i) का विचित्रा? (ii) चौरः काम् आदाय पलायितः? (iii) 'प्रविष्टः' पदे कः प्रत्ययः?
(i) बङ्किमचन्द्रः।
(ii) दोषभाजनम् (दोषी)।
(iii) क्तवतु।
(i) दैवगतिः।
(ii) मञ्जूषाम् (पेटी को)।
(iii) क्त।
प्र.19. पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-
"आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति॥"
(i) मनुष्याणां महान् रिपुः कः? (ii) अस्माकं बन्धुः कः? (iii) 'रिपुः' इत्यस्य विलोमपदं लिखत।
अथवा
"संपत्तौ च विपत्तौ च महतामेकरूपता।
उदेति सविता रक्तो रक्तश्चास्तमये तथा॥"
(i) केषां संपत्तौ विपत्तौ च एकरूपता भवति? (ii) सविता कदा रक्तः भवति? (iii) 'सविता' इत्यस्य पर्यायपदं लिखत।
(i) आलस्यं।
(ii) उद्यमः (परिश्रम)।
(iii) मित्रम् / बन्धुः।
(i) महताम् (महापुरुषाणाम्)।
(ii) उदेति (उदयसमये) अस्तमये च।
(iii) सूर्यः / भानुः।
प्र.20. नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-
"सिंहः - (क्रोधेन गर्जन्) भोः! अहं वनराजः। किं भयं न जायते? किमर्थं मां एवं तुदन्ति सर्वे मिलित्वा?
वानरः - यतः त्वं वनराजः भवितुं तु सर्वथा अयोग्यः। राजा तु रक्षकः भवति, परं भवान् तु भक्षकः।"
(i) वनराजः कः अस्ति? (ii) वानरस्य मते सिंहः कीदृशः? (iii) राजा कीदृशः भवेत्?
अथवा
"काकः - आम् सत्यं कथितं त्वया। वस्तुतः वनराजः भवितुं तु अहमेव योग्यः।
पिकः - उपहसन्। कथं त्वं योग्यः वनराजः भवितुं? यत्र तत्र 'का-का' इति कर्कशध्वनिना वातावरणं आकुलीकरोषि।"
(i) कः आत्मानं वनराजपदाय योग्यं मन्यते? (ii) पिकः कस्य उपहासं करोति? (iii) काकस्य ध्वनिः कीदृशी?
(i) सिंहः।
(ii) सर्वथा अयोग्यः / भक्षकः।
(iii) रक्षकः।
(i) काकः।
(ii) काकस्य।
(iii) कर्कशध्वनिः।
खण्डः 'द' (4 अंकाः)
प्र.21. अपठित गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-
"सत्सङ्गतिः इत्युक्ते सज्जनानां सङ्गतिः। सत्सङ्गत्या मनुष्यः उन्नतिं करोति। दुर्जनानां सङ्गत्या तु विनाशः भवति। अतः सर्वदा सज्जनैः सह एव निवसेत्। सत्सङ्गतिः बुद्धेः जाड्यं हरति, वाचि सत्यं सिञ्चति, मानं च उन्नयति। मानवजीवने सत्सङ्गतेः महती आवश्यकता वर्तते।"
(i) का बुद्धेः जाड्यं हरति?
(ii) केषां सङ्गत्या विनाशः भवति?
(iii) 'उन्नतिं' इत्यस्य विलोमपदं लिखत।
(iv) गद्यांशस्य शीर्षकं लिखत।
(i) सत्सङ्गतिः।
(ii) दुर्जनानां।
(iii) अवनतिं / विनाशः।
(iv) सत्सङ्गतिः / सत्सङ्गतेः महत्वम्।
प्र.22. स्वप्राचार्यस्य कृते 'शुल्कमुक्ति' (Fee Concession) प्रार्थनापत्रं लिखत।
अथवा
स्वमित्रं प्रति 'परीक्षायाः सफलतायाः' वर्धापनपत्रं लिखत।
सेवायाम्,
श्रीमन्तः प्राचार्यमहोदयाः,
शासकीय विद्यालयः,
भोपाल नगरम्।
विषयः - शिक्षणशुल्कमुक्तेः प्रार्थनापत्रम्।
महोदय,
सविनयं निवेदनम् अस्ति यत् मम पिता एकः साधारणः कृषकः अस्ति। तस्य मासिकी आयः अतिन्यूना वर्तते। मम परिवारस्य पालनपोषणं काठिन्येन भवति। अतः अहं शिक्षणशुल्कं दातुम् असमर्थः अस्मि। कृपया मम शिक्षणशुल्कं क्षम्यताम्।
भवदीया शिष्यः
नाम - क.ख.ग.
कक्षा - दशमी
प्रिय मित्र सुरेश,
सप्रेम नमः।
अत्र कुशलं तत्रास्तु। अहं तव परीक्षापरिणामं ज्ञात्वा अतिप्रसन्नः अभवम्। त्वं दशमीकक्षायां प्रथमस्थाने उत्तीर्णः अभवः। एतदर्थं मम पक्षतः हार्दिकी शुभकामना। अहं ईश्वरं प्रार्थये यत् सः त्वां उत्तरोत्तरं उन्नतिं ददातु।
तव मित्रम्,
महेशः
प्र.23. अधोलिखितेषु एकस्मिन् विषये निबन्धं लिखत (संस्कृतभाषायाः महत्वम् / सदाचारः / मम प्रिय कविः / महाकवि कालिदासः)-

सदाचारः

सताम् आचारः सदाचारः कथ्यते। सज्जनाः यत् आचरन्ति तदेव सदाचारः भवति। सदाचारः मानवजीवनस्य आभूषणम् अस्ति। येन जनेन सद्व्यवहारः क्रियते, सः एव सदाचारी भवति। गुरुजनानां सम्मानं, सत्यवादनं, अहिंसा, परोपकारः च सदाचारस्य गुणाः सन्ति।
सदाचारी जनः सर्वत्र आदरं लभते। दुराचारी जनः तु सर्वत्र निन्दितः भवति। 'आचारः परमो धर्मः' इति अस्माकं शास्त्रेषु कथितम्। अतः अस्माभिः सर्वदा सदाचारस्य पालनं करणीयम्। सदाचारेण एव मनुष्यः देवतुल्यः भवति। राष्ट्रस्य उन्नत्यै अपि सदाचारः आवश्यकः अस्ति।

Disclaimer: कक्षा 10वीं संस्कृत मॉडल पेपर – सेट B की तैयारी हेतु केवल शैक्षणिक उद्देश्य से बनाया गया है। यह आधिकारिक प्रश्नपत्र नहीं है। अंतिम एवं प्रमाणिक जानकारी के लिए माध्यमिक शिक्षा मंडल, मध्य प्रदेश की आधिकारिक वेबसाइट अवश्य देखें। प्रश्नों का चयन नवीन परीक्षा पैटर्न एवं पूर्व वर्षों के विश्लेषण के आधार पर किया गया है। किसी भी त्रुटि/परिवर्तन के लिए Gyan Deep Info उत्तरदायी नहीं होगा।

  1. MP Board कक्षा 10वीं संस्कृत मॉडल पेपर 2026 – सेट D
  2. MP Board कक्षा 10वीं संस्कृत मॉडल पेपर 2026 – सेट C
  3. MP Board कक्षा 10वीं संस्कृत मॉडल पेपर 2026 – सेट B
  4. MP Board कक्षा 10वीं संस्कृत मॉडल पेपर 2026 – सेट A
WhatsApp पर Share करने के लिए यहाँ क्लिक कीजिए
Share:

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

Gyan Deep Info की अपडेट E-Mail पर प्राप्त करने के लिए अपना Email दर्ज कर Subscribe पर क्लिक कीजिए

Enter your email address:

Delivered by FeedBurner

Welcome





Gyan Deep Info पर आपका स्वागत है. “Welcome To Gyan Deep Info” DPI Orders - GAD MP Orders - MP Finance Orders - Health Department Orders - MP Education Department Orders - Tribal Department Orders.


This Blog is protected by DMCA.com

Recent Posts

Popular Posts

यह ब्लॉग खोजें

Copyright Gyan Deep Info. Blogger द्वारा संचालित.

Contact Us

नाम

ईमेल *

संदेश *

Subscribe Here

About us

ब्लॉग आर्काइव