-->

Gyan Deep Info विभिन्न उपयोगी शासनादेश (Govt. Orders) उपलब्ध कराने का एक प्रयास है

MP Board कक्षा 10वीं संस्कृत मॉडल पेपर 2026 – सेट B

MP Board कक्षा 10वीं संस्कृत मॉडल पेपर 2026 – सेट B

MP Board कक्षा 10वीं संस्कृत मॉडल पेपर 2026 – सेट B

माध्यमिक शिक्षा मंडल, मध्य प्रदेश द्वारा आयोजित बोर्ड परीक्षा 2026 की तैयारी हेतु संस्कृत मॉडल पेपर – सेट B एक महत्वपूर्ण अभ्यास सामग्री है।

  • ✔ नवीन परीक्षा पैटर्न पर आधारित
  • ✔ वस्तुनिष्ठ + लघु + दीर्घ उत्तरीय प्रश्न
  • ✔ संधि, समास, कारक, शब्दरूप, धातुरूप अभ्यास
  • ✔ अपठित गद्यांश एवं अनुवाद प्रश्न

नियमित अभ्यास से संस्कृत विषय में उच्च अंक प्राप्त करना आसान हो सकता है।

Sanskrit Model Paper 10th (Set-B) - Complete

कक्षा 10वीं - संस्कृत

(सम्पूर्ण मॉडल पेपर: सेट-B)

Created by: Devendra Kumar Septa | पूर्णांक: 75 | समय: 3 घंटे

खण्डः 'अ' (वस्तुनिष्ठ प्रश्नाः - 30 अंकाः)
प्र.1. उचितं विकल्पं चित्वा लिखत: (1×6 = 6 अंकाः)
(i) 'रामेण' इत्यस्मिन् पदे का विभक्तिः अस्ति?
(अ) प्रथमा (ब) तृतीया (स) पञ्चमी (द) सप्तमी
👉 (ब) तृतीया

(ii) 'लतानाम्' इत्यस्मिन् पदे वचनं अस्ति-
(अ) एकवचनम् (ब) द्विवचनम् (स) बहुवचनम् (द) अन्यवचनम्
👉 (स) बहुवचनम्

(iii) 'फलात्' इत्यस्मिन् पदे का विभक्तिः अस्ति?
(अ) चतुर्थी (ब) पञ्चमी (स) षष्ठी (द) तृतीया
👉 (ब) पञ्चमी

(iv) 'नदी' शब्दस्य द्वितीया विभक्तिः बहुवचनं रूपं अस्ति-
(अ) नदीः (ब) नद्यः (स) नदीम् (द) नदीनाम्
👉 (अ) नदीः

(v) अधोलिखितेषु अव्ययपदं अस्ति-
(अ) गच्छति (ब) अत्र (स) बालकः (द) सीता
👉 (ब) अत्र

(vi) 'सदाचारः एव परमो धर्मः' अत्र अव्ययम् अस्ति-
(अ) सदाचारः (ब) परमः (स) एव (द) धर्मः
👉 (स) एव
प्र.2. प्रदत्तशब्दैः रिक्तस्थानानि पूरयत: (1×6 = 6 अंकाः)
(गमिष्यति, लभते, पिबति, अपठत्, निर्, प्र)
(i) 'पा' धातोः लट्लकारस्य प्रथमपुरुषः एकवचनं ________ भवति।
👉 पिबति

(ii) 'लभ्' धातोः आत्मनेपदे लट्लकारस्य प्रथमपुरुषः एकवचनं ________ अस्ति।
👉 लभते

(iii) 'गम्' धातोः लृट्लकारस्य रूपं ________ अस्ति।
👉 गमिष्यति

(iv) 'पठ्' धातोः लङ्लकारस्य रूपं ________ अस्ति।
👉 अपठत्

(v) 'निर्धनः' इत्यस्मिन् पदे ________ उपसर्गः अस्ति।
👉 निर्

(vi) 'प्राचार्यः' इत्यस्मिन् पदे ________ उपसर्गः अस्ति।
👉 प्र
प्र.3. युग्ममेलनं कुरुत: (1×6 = 6 अंकाः)
(i) विद्यालयः   -> (क) व्यंजनसन्धिः
(ii) मनोरथः   -> (ख) दीर्घस्वरसन्धिः
(iii) वागीशः   -> (ग) विसर्गसन्धिः
(iv) पीताम्बरः   -> (घ) अव्ययीभावः समासः
(v) प्रतिदिनम्   -> (ङ) तत्पुरुषः समासः
(vi) चोरभयम्   -> (च) बहुव्रीहिः समासः
उचितमेलनम्:
(i) विद्यालयः → (ख) दीर्घस्वरसन्धिः
(ii) मनोरथः → (ग) विसर्गसन्धिः
(iii) वागीशः → (क) व्यंजनसन्धिः
(iv) पीताम्बरः → (च) बहुव्रीहिः समासः
(v) प्रतिदिनम् → (घ) अव्ययीभावः समासः
(vi) चोरभयम् → (ङ) तत्पुरुषः समासः
प्र.4. एकपदेन उत्तरत: (1×6 = 6 अंकाः)
(i) 'पठितुम्' इत्यस्मिन् पदे कः प्रत्ययः?
तुमुन्

(ii) 'आदाय' इत्यस्मिन् पदे कः प्रत्ययः?
ल्यप्

(iii) 'गतवान्' अत्र कः प्रत्ययः?
क्तवतु

(iv) व्याघ्रः कस्मात् बिभेति?
मानुषात्

(v) अतिथिः केन प्रबुद्धः?
पादध्वनिना

(vi) "सर्वदा सर्वकार्येषु का बलवती?"
बुद्धिः
प्र.5. शुद्धवाक्यानां समक्षं 'आम्' अशुद्धवाक्यानां समक्षं 'न' इति लिखत: (1×6 = 6 अंकाः)
(i) 'सुन्दरः बालकः' अत्र 'बालकः' विशेष्यपदम् अस्ति। (आम्)
(ii) 'पवनः' इत्यस्य पर्यायपदं 'वायुः' अस्ति। (आम्)
(iii) 'सम्पत्तौ' इत्यस्य विलोमपदं 'विपत्तौ' अस्ति। (आम्)
(iv) 'क्रुद्धः सिंहः' अत्र 'सिंहः' विशेषणपदम् अस्ति। (न)
(v) 'आम्रम्' इत्यस्य पर्यायपदं 'रसालम्' नास्ति। (न)
(vi) 'दुर्बलं वृषभम्' अत्र 'दुर्बलं' विशेषणम् अस्ति। (आम्)
खण्डः 'ब' (लघुत्तरीय प्रश्नाः - 2 अंकाः)
प्र.6. कविः किमर्थं प्रकृतेः शरणम् इच्छति?
अथवा
अस्माकं पर्यावरणे किं किं दूषितम् अस्ति?
अत्र धरातले जीवितं दुर्वहं जातम्, अतः कविः प्रकृतेः शरणम् इच्छति।
अस्माकं पर्यावरणे वायुमण्डलं, जलं, भक्ष्यं, धरातलं च सर्वं दूषितम् अस्ति।
प्र.7. व्याघ्रः किं विचार्य पलायितः?
अथवा
लोके महतो भयात् कः मुच्यते?
'इयं व्याघ्रमारी काचित्' इति विचार्य व्याघ्रः पलायितः।
लोके महतो भयात् बुद्धिमान् मुच्यते।
प्र.8. कृषकः किं करोति स्म?
अथवा
जननी कीदृशी भवति?
कृषकः वलीवर्दाभ्यां क्षेत्रकर्षणं करोति स्म।
जननी सर्वेशु अपत्येषु तुल्यवत्सला भवति।
प्र.9. मयूरः कथं नृत्यमुद्रायां स्थितः भवति?
अथवा
अन्ते सर्वे मिलित्वा कस्य राज्याभिषेकाय तत्पराः भवन्ति?
मयूरः पिच्छान् उद्घाट्य नृत्यमुद्रायां स्थितः भवति।
अन्ते सर्वे मिलित्वा उल्लूकस्य राज्याभिषेकाय तत्पराः भवन्ति।
प्र.10. केन समः बन्धुः नास्ति?
अथवा
नराणां प्रथमः शत्रुः कः?
उद्यमेन समः बन्धुः नास्ति।
नराणां प्रथमः शत्रुः क्रोधः अस्ति।
प्र.11. प्रश्ननिर्माणं कुरुत (कोऽपि द्वौ):
(i) उद्याने पक्षिणां कलरवः चेतः प्रसादयति।
(ii) लतातरुगुल्माः प्रस्तरतले पिष्टाः न भवन्तु।
(i) कस्मिन् / कुत्र पक्षिणां कलरवः चेतः प्रसादयति?
(ii) के प्रस्तरतले पिष्टाः न भवन्तु?
प्र.12. कः कं प्रति कथयति (कोऽपि एकः):
(i) "रे रे धूर्त! त्वया दत्तं मह्यं व्याघ्रत्रयं पुरा?"
(ii) "जानामि अहं तस्य नामधेयम्।"
(i) बुद्धिमती (कथयति), जम्बुकं/शृगालं (प्रति)
(ii) कुशः (कथयति), रामं (प्रति)
प्र.13. वाच्यपरिवर्तनं कुरुत (कोऽपि एकः):
(i) सः पुस्तकं पठति। (कर्मवाच्ये)
(ii) सीतया भोजनं पच्यते। (कर्तृवाच्ये)
(i) तेन पुस्तकं पठ्यते।
(ii) सीता भोजनं पचति।
प्र.14. स्वपाठ्यपुस्तकात् एकं सुभाषितानि श्लोकं लिखत (यः अस्मिन् प्रश्नपत्रे न स्यात्)।
"अमन्त्रमक्षरं नास्ति नास्ति मूलमनौषधम्।
अयोग्यः पुरुषो नास्ति योजकस्तत्र दुर्लभः॥"
प्र.15. अशुद्धकारकवाक्यानां शुद्धिः (कोऽपि एकः):
(i) श्री गणेशं नमः।
(ii) वृक्षं पत्राणि पतन्ति।
(i) श्री गणेशाय नमः।
(ii) वृक्षात् पत्राणि पतन्ति।
प्र.16. रिक्तस्थानानि पूरयत (कोऽपि द्वौ):
(सदा, अत्र, रिपुः)
(i) ________ जीवनं दुर्वहम् अस्ति।
(ii) आलस्यं हि मनुष्याणां शरीरस्थो महान् ________।
(i) अत्र
(ii) रिपुः
प्र.17. कथाक्रमसंयोजनम्:
(1) मार्गे सा एकं व्याघ्रं अपश्यत्।
(2) बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता।
(3) व्याघ्रः 'व्याघ्रमारी इयम्' इति मत्वा पलायितः।
(4) सा पुत्रौ ताडयन्ती उवाच।
सही क्रम:
1. (2) बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता।
2. (1) मार्गे सा एकं व्याघ्रं अपश्यत्।
3. (4) सा पुत्रौ ताडयन्ती उवाच।
4. (3) व्याघ्रः 'व्याघ्रमारी इयम्' इति मत्वा पलायितः।
खण्डः 'स' (3 अंकाः)
प्र.18. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-
"कश्चित् कृषकः बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन्नासीत्। तयोः बलीवर्दयोः एकः शरीरेण दुर्बलः जवेन गन्तुमशक्तः चासीत्। अतः कृषकः तं दुर्बलं वृषभं तोदनेन नुद्यमानः अवर्तत।"
(i) कृषकः काभ्यां क्षेत्रकर्षणं करोति स्म? (ii) तयोः बलीवर्दयोः एकः कीदृशः आसीत्? (iii) 'शीघ्रम्' इत्यस्य पर्यायपदं लिखत।
अथवा
"अस्ति देउलाख्यो ग्रामः। तत्र राजसिंहः नाम राजपुत्रः वसति स्म। एकदा केनापि आवश्यककार्येण तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता।"
(i) ग्रामस्य नाम किम् आसीत्? (ii) तत्र कः वसति स्म? (iii) बुद्धिमती कुत्र चलिता?
(i) कृषकः बलीवर्दाभ्यां क्षेत्रकर्षणं करोति स्म।
(ii) एकः शरीरेण दुर्बलः आसीत्।
(iii) जवेन।
(i) ग्रामस्य नाम देउलाख्यः आसीत्।
(ii) तत्र राजसिंहः वसति स्म।
(iii) बुद्धिमती पितुर्गृहं प्रति चलिता।
प्र.19. अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-
"विचित्र खलु संसारे नास्ति किञ्चित् निरर्थकम्।
अश्वश्चेद धावने वीरः भारस्य वहने खरः॥"
(i) संसारे किं नास्ति? (ii) धावने कः वीरः? (iii) भारस्य वहने कः वीरः?
अथवा
"अमन्त्रमक्षरं नास्ति नास्ति मूलमनौषधम्।
अयोग्यः पुरुषो नास्ति योजकस्तत्र दुर्लभः॥"
(i) कीदृशं अक्षरं नास्ति? (ii) कीदृशं मूलं नास्ति? (iii) अत्र कः दुर्लभः अस्ति?
(i) किञ्चित् निरर्थकम् नास्ति।
(ii) अश्वः।
(iii) खरः।
(i) अमन्त्रम् अक्षरं नास्ति।
(ii) अनौषधम् मूलं नास्ति।
(iii) योजकः दुर्लभः अस्ति।
प्र.20. अधोलिखितं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-
"काकः - रे परभृत्! अहं यदि तव सन्ततिं न पालयामि तर्हि कुत्र स्युः पिकाः? अतः अहमेव करुणापरः पक्षिसम्राट् काकः।"
(i) कः कथयति "रे परभृत्"? (ii) काकः कस्याः सन्ततिं पालयति? (iii) 'पिकाः' इत्यस्य अर्थः कः?
अथवा
"सिंहः - (क्रोधेन गर्जन्) भोः! अहं वनराजः। किं भयं न जायते? किमर्थं मां एवं तुदन्ति सर्वे मिलित्वा?
वानरः - यतः त्वं वनराजः भवितुं तु सर्वथा अयोग्यः।"
(i) कः क्रोधेन गर्जति? (ii) सिंहः कीदृशः अस्ति (वानरस्य मते)? (iii) राजा कीदृशः भवति?
(i) काकः।
(ii) पिकानां (कोयल की)।
(iii) कोकिलाः।
(i) सिंहः।
(ii) सर्वथा अयोग्यः।
(iii) रक्षकः।
खण्डः 'द' (4 अंकाः)
प्र.21. अपठित गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-
"जननी जन्मभूमिश्च स्वर्गादपि गरीयसी। जन्मभूमिः स्वर्गात् अपि श्रेष्ठा वर्तते। सा अस्मान् पोषयति। तस्याः यशः सर्वत्र व्याप्तम्। वयं तस्याः रक्षणाय तत्पराः भवेम। मातृभूमिः अस्माकं माता अस्ति।"
(i) का स्वर्गादपि गरीयसी?
(ii) जन्मभूमिः कस्मात् श्रेष्ठा वर्तते?
(iii) 'माता' इत्यस्य पर्यायपदं लिखत।
(iv) गद्यांशस्य शीर्षकं लिखत।
(i) जननी जन्मभूमिश्च।
(ii) स्वर्गात्।
(iii) जननी।
(iv) जननी जन्मभूमिश्च / मातृभूमिः।
प्र.22. स्वप्राचार्यस्य कृते 'स्थानान्तरण प्रमाण पत्राय' (TC) एकं प्रार्थनापत्रं लिखत।
अथवा
स्वमित्रं प्रति 'जन्मदिवसस्य शुभकामना' यच्छन् एकं पत्रं लिखत।
सेवायाम्,
श्रीमन्तः प्राचार्यमहोदयाः,
सांदीपनि विद्यालयः,
तलवाड़ा बुजुर्ग।
विषयः - स्थानान्तरण प्रमाणपत्रार्थं प्रार्थनापत्रम्।
महोदय,
सविनयं निवेदनम् अस्ति यत् मम पितुः स्थानान्तरणम् इन्दौरनगरे संजातम्। अतः अहं अत्र पठितुम् असमर्थः अस्मि। कृपया मह्यं स्थानान्तरण प्रमाणपत्रं (T.C.) दत्वा अनुगृह्णन्तु।
भवदीया शिष्यः
क.ख.ग.
कक्षा - दशमी
प्रिय मित्र सुरेश,
सप्रेम नमो नमः।
अत्र कुशलं तत्रास्तु। आगामी सप्ताहे तव जन्मदिवसः अस्ति। मम पक्षतः तुभ्यं जन्मदिवसस्य हार्दिक्यः शुभकामनाः। ईश्वरः त्वाम् दीर्घायुः करोतु।
तव मित्रम्,
रमेशः
प्र.23. अधोलिखितेषु एकस्मिन् विषये निबन्धं लिखत (संस्कृतभाषायाः महत्वम् / कालिदासः / अस्माकं देशः / पर्यावरणम्)-

संस्कृतभाषायाः महत्वम्

संस्कृतभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा अस्ति। इयं भाषा देवभाषा अपि कथ्यते। पुरा काले सर्वे जनाः संस्कृतभाषायाम् एव वदन्ति स्म। चत्वारः वेदाः, रामायणम्, महाभारतम्, उपनिषदः च संस्कृतभाषायाम् एव निबद्धाः सन्ति। संस्कृतभाषायाः व्याकरणं पूर्णतः वैज्ञानिकं अस्ति। अस्याः माधुर्यं अवर्णनीयम् अस्ति। अस्माकं संस्कृतेः आधारः इयमेव भाषा अस्ति। अतः अस्माभिः संस्कृतं अवश्यं पठनीयम्।

Disclaimer: कक्षा 10वीं संस्कृत मॉडल पेपर – सेट B की तैयारी हेतु केवल शैक्षणिक उद्देश्य से बनाया गया है। यह आधिकारिक प्रश्नपत्र नहीं है। अंतिम एवं प्रमाणिक जानकारी के लिए माध्यमिक शिक्षा मंडल, मध्य प्रदेश की आधिकारिक वेबसाइट अवश्य देखें। प्रश्नों का चयन नवीन परीक्षा पैटर्न एवं पूर्व वर्षों के विश्लेषण के आधार पर किया गया है। किसी भी त्रुटि/परिवर्तन के लिए Gyan Deep Info उत्तरदायी नहीं होगा।

  1. MP Board कक्षा 10वीं संस्कृत मॉडल पेपर 2026 – सेट D
  2. MP Board कक्षा 10वीं संस्कृत मॉडल पेपर 2026 – सेट C
  3. MP Board कक्षा 10वीं संस्कृत मॉडल पेपर 2026 – सेट B
  4. MP Board कक्षा 10वीं संस्कृत मॉडल पेपर 2026 – सेट A
WhatsApp पर Share करने के लिए यहाँ क्लिक कीजिए
Share:

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

Gyan Deep Info की अपडेट E-Mail पर प्राप्त करने के लिए अपना Email दर्ज कर Subscribe पर क्लिक कीजिए

Enter your email address:

Delivered by FeedBurner

Welcome





Gyan Deep Info पर आपका स्वागत है. “Welcome To Gyan Deep Info” DPI Orders - GAD MP Orders - MP Finance Orders - Health Department Orders - MP Education Department Orders - Tribal Department Orders.


This Blog is protected by DMCA.com

Recent Posts

Popular Posts

यह ब्लॉग खोजें

Copyright Gyan Deep Info. Blogger द्वारा संचालित.

Contact Us

नाम

ईमेल *

संदेश *

Subscribe Here

About us

ब्लॉग आर्काइव