आदर्श त्रैमासिक परीक्षा प्रश्न पत्र (सेट - 1)
कक्षा - 9वी | विषय - संस्कृतम्
निर्देशाः - सर्वे प्रश्नाः अनिवार्याः सन्ति। प्रश्न 1 तः 5 पर्यन्तं वस्तुनिष्ठप्रश्नाः सन्ति। प्रश्न 6 तः 17 पर्यन्तं 2 अङ्काः, 18 तः 20 पर्यन्तं 3 अङ्काः तथा 21 तः 23 पर्यन्तं 4 अङ्काः निर्धारिताः सन्ति।
प्रश्न 1. उचितविकल्पं चित्वा लिखत (1x6=6)
प्रश्न 2. रिक्तस्थानानि पूरयत (1x6=6)
प्रश्न 3. शुद्धवाक्यानां समक्षम् 'आम्' अशुद्धवाक्यानां समक्षम् 'न' इति लिखत (1x6=6)
प्रश्न 4. उचितं मेलनं कुरुत (सही जोड़ी) (1x6=6)
प्रश्न 5. एकपदेन/एकवाक्येन उत्तरं लिखत (1x6=6)
प्रश्न 6. वसन्ते किं भवति? (2 अङ्कौ)
निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत्?
प्रश्न 7. कालः कस्य रसं पिबति? (2 अङ्कौ)
सज्जनानां मैत्री कीदृशी भवति?
प्रश्न 8. कुम्भकारः घटान् किमर्थं रचयति? (2 अङ्कौ)
चन्दनस्य भार्यायाः नाम किम् आसीत्?
प्रश्न 9. बालः कदा क्रीडितुम् अगच्छत्? (2 अङ्कौ)
जीमूतवाहनः कीदृशः आसीत्?
प्रश्न 10. 'राम' शब्दस्य प्रथमा विभक्तेः रूपाणि लिखत। (2 अङ्कौ)
'बालक' शब्दस्य तृतीया विभक्तेः रूपाणि लिखत।
प्रश्न 11. 'गम्' धातोः लट्लकारस्य प्रथमपुरुषस्य रूपाणि लिखत। (2 अङ्कौ)
'पठ्' धातोः लृट्लकारस्य उत्तमपुरुषस्य रूपाणि लिखत।
प्रश्न 12. अधोलिखितपदयोः सन्धिं कृत्वा नामापि लिखत- विद्या + आलयः, रमा + ईशः। (2 अङ्कौ)
2. रमा + ईशः = रमेशः (गुण स्वर सन्धिः)
सन्धिविच्छेदं कृत्वा सन्धेः नाम लिखत- सदैव, स्वागतम्।
2. स्वागतम् = सु + आगतम् (यण् स्वर सन्धिः)
प्रश्न 13. उपसर्गं चित्वा लिखत- प्रहारः, अनुभवति। (2 अङ्कौ)
2. अनुभवति - अनु (उपसर्गः)
अव्ययपदानि चित्वा लिखत- रामः अद्य गच्छति, तत्र एकः वृक्षः अस्ति।
2. तत्र (अव्ययम्)
प्रश्न 14. समासविग्रहं कृत्वा समासस्य नाम लिखत- प्रतिदिनम्, दशाननः। (2 अङ्कौ)
2. दशाननः = दश आनानि यस्य सः (बहुव्रीहि समासः)
समासविग्रहं कुरुत- राजपुत्रः, नीलोत्पलम्।
2. नीलोत्पलम् = नीलम् उत्पलम् (कर्मधारय समासः)
प्रश्न 15. प्रकृति-प्रत्ययौ पृथक् कुरुत- पठितुम्, गत्वा। (2 अङ्कौ)
2. गत्वा = गम् (धातु) + क्त्वा (प्रत्यय)
प्रत्ययं योजयित्वा लिखत- आ + दा + ल्यप्, कृ + क्त।
2. कृ + क्त = कृतः
प्रश्न 16. अधोलिखितवाक्यानि शुद्धानि कुरुत- वृक्षस्य पत्राणि पतन्ति। , सः नेत्रस्य काणः अस्ति। (2 अङ्कौ)
2. सः नेत्रेण काणः अस्ति। (तृतीया विभक्ति का प्रयोग)
अधोलिखितवाक्ये शुद्धं कुरुत- श्री गुरुं नमः। , रामः रावणस्य हतवान्।
2. रामः रावणं हतवान्। (कर्म में द्वितीया)
प्रश्न 17. स्वपाठ्यपुस्तकात् एकं श्लोकं लिखत यः अस्मिन् प्रश्नपत्रे नास्ति। (2 अङ्कौ)
मृदुं गाय गीतिं ललितनीतिलीनाम्॥
(छात्र अपनी पाठ्यपुस्तक का कोई भी शुद्ध श्लोक लिख सकते हैं)
'भारतीवसन्तगीतिः' पाठस्य रचयिता कः अस्ति तथा अयं पाठः कस्मात् ग्रन्थात् सङ्कलितः?
प्रश्न 18. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत: (3 अङ्काः)
"पुरा कस्मिंश्चित् ग्रामे एका निर्धना वृद्धा स्त्री न्यवसत्। तस्याश्च एका दुहिता विनम्रा मनोहरा चासीत्। एकदा माता स्थाल्यां तण्डुलान् निक्षिप्य पुत्रीमादिदेश- 'सूर्यातपे तण्डुलान् खगेभ्यो रक्ष।' किञ्चित् कालादनन्तरम् एको विचित्रः काकः समुड्डीय तस्याः समीपम् अगच्छत्।"
अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत:
"प्रकृत्येव प्राणिनां संरक्षणाय यतते। इयं सर्वांन् पुष्णाति विविधैः प्रकारैः, तर्पयति च सुखासाधनैः। पृथिवी, जलम्, तेजः, वायुः, आकाशः च अस्याः प्रमुखानि तत्त्वानि। तान्येव मिलित्वा पृथक्त्वेन वा अस्माकं पर्यावरणं रचयन्ति।"
प्रश्न 19. अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत: (3 अङ्काः)
"पिबन्ति नद्यः स्वयमेव नाम्भः,
स्वयं न खादन्ति फलानि वृक्षाः।
नादन्ति सस्यं खलु वारिवाहाः,
परोपकाराय सतां विभूतयः॥"
अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत:
"गुणा गुणज्ञेषु गुणा भवन्ति,
ते निर्गुणं प्राप्य भवन्ति दोषाः।
आस्वाद्यतोयाः प्रवहन्ति नद्यः,
समुद्रमासाद्य भवन्त्यपेयाः॥"
प्रश्न 20. अधोलिखितं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत: (3 अङ्काः)
चन्दनः - अस्तु। गच्छ। सखीभिः सह धर्मयात्रया आनन्दिता च भव। अहं सर्वमपि परिपालयिष्यामि। शिवास्ते सन्तु पन्थानः।
चन्दनः - मल्लिका तु धर्मयात्रायै गता। अस्तु। दुग्धदोहनं कृत्वा ततः स्वप्रातराशस्य प्रबन्धं करिष्यामि।
अधोलिखितं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत:
मल्लिका - (क्रोधेन) विरम विरम। मासृश एतानि मोदकानि।
चन्दनः - किमर्थं क्रुध्यसि? तव हस्तनिर्मितानि मोदकानि दृष्ट्वा अहं जिह्वालोलुपतां नियन्त्रयितुम् अक्षमः अस्मि। किं न जानासि त्वमिदम्?
प्रश्न 21. अधोलिखितम् अपठितगद्यांशं सम्यक् पठित्वा प्रश्नानाम् उत्तराणि लिखत: (4 अङ्काः)
"संस्कृतभाषा अस्माकं देशस्य प्राचीनतमा भाषा अस्ति। प्राचीनकाले सर्वे एव भारतीयाः संस्कृतभाषया एव व्यवहारं कुर्वन्ति स्म। कालान्तरे विविधाः प्रान्तीयभाषाः प्रचलिताः अभवन्, किन्तु संस्कृतस्य महत्त्वम् अद्यापि अक्षुण्णम् वर्तते। सर्वे प्राचीनग्रन्थाः चत्वारो वेदाश्च संस्कृतभाषायामेव सन्ति।"
प्रश्न 22. स्वप्राचार्याय अवकाशार्थम् एकं प्रार्थनापत्रं संस्कृते लिखत। (4 अङ्काः)
श्रीमन्तः प्राचार्यमहोदयाः,
शासकीय उच्चतर माध्यमिक विद्यालयः,
तलवाड़ा बुजुर्ग, मध्यप्रदेशः।
विषयः - अवकाशार्थं प्रार्थनापत्रम्।
महोदय,
सविनयं निवेदनम् अस्ति यत् अहम् अद्य सहसा ज्वरपीडितः अस्मि। अतः विद्यालयम् आगन्तुम् असमर्थः अस्मि। कृपया मह्यं दिनद्वयस्य (दिनांक .... तः .... पर्यन्तम्) अवकाशं यच्छन्तु इति सविनयं प्रार्थये।
दिनाङ्कः: .........
भवदीयः शिष्यः
नाम: .........
कक्षा: नवमी
स्वप्राचार्याय शुल्कमुक्तये एकं प्रार्थनापत्रं संस्कृते लिखत।
श्रीमन्तः प्राचार्यमहोदयाः,
शासकीय उच्चतर माध्यमिक विद्यालयः,
तलवाड़ा बुजुर्ग, मध्यप्रदेशः।
विषयः - शुल्कमुक्तये प्रार्थनापत्रम्।
महोदय,
सविनयं निवेदनम् अस्ति यत् मम पिता एकः निर्धनः कृषकः अस्ति। तस्य आयः अतीव न्यूनः अस्ति। अतः सः मम विद्यालयस्य शुल्कं दातुम् असमर्थः अस्ति। अहम् अध्ययने अतीव रुचिं रक्षे। कृपया मम शिक्षणशुल्कं क्षमा कृत्वा माम् अनुगृह्णन्तु।
दिनाङ्कः: .........
भवदीयः आज्ञाकारी शिष्यः
नाम: .........
कक्षा: नवमी
प्रश्न 23. अधोलिखितेषु एकस्मिन् विषये संस्कृते निबन्धं लिखत: (4 अङ्काः)
इयं भाषा सर्वासां भारतीयभाषाणां जननी अस्ति।
अस्माकं चत्वारः वेदाः, उपनिषदः, पुराणानि च संस्कृतभाषायामेव लिखितानि सन्ति।
संस्कृतभाषातीव मधुरा सरला च अस्ति।
प्राचीनकाले एषा भाषा एव सर्वसाधारणजनानां भाषा आसीत्।
संस्कृतभाषायाः व्याकरणं पूर्णतः वैज्ञानिकम् अस्ति।
अतः अस्माभिः सर्वेः संस्कृतभाषा अवश्यमेव पठनीया।
पर्यावरणे जलम्, वायुः, भूमिः, आकाशः च अन्तर्भवन्ति।
शुद्धं पर्यावरणं जीवनाय अतीव आवश्यकम् अस्ति।
अद्यत्वे यन्त्रागाराणां धूमेन वायुः प्रदूषितः भवति।
नदीनां जलमपि दूषितं भवति।
वृक्षाणां कर्तनं पर्यावरणप्रदूषणस्य मुख्यं कारणम् अस्ति।
अस्माभिः पर्यावरणरक्षणाय अधिकाधिकाः वृक्षाः आरोपणीयाः।
सः विक्रमादित्यस्य नवरत्नेषु एकः आसीत्।
कालिदासेन सप्त रचनाः कृताः सन्ति।
तासु 'अभिज्ञानशाकुन्तलम्' इति नाटकं विश्वप्रसिद्धम् अस्ति।
'मेघदूतम्' तस्य प्रसिद्धं खण्डकाव्यम् अस्ति।
कालिदासस्य उपमा विश्वे अद्वितीया अस्ति, अतः 'उपमा कालिदासस्य' इति कथ्यते।
तस्य रचनासु प्रकृतेः रमणीयं वर्णनं प्राप्यते।
यह केवल त्रैमासिक परीक्षा की तैयारी एवं अभ्यास हेतु एक मॉडल (प्रारूप) प्रश्न पत्र है। इसमें दिए गए प्रश्न एवं उत्तर परीक्षा पैटर्न पर आधारित संभावित अभ्यास सामग्री हैं, इसे आधिकारिक परीक्षा पेपर न समझें। विद्यार्थी अपनी अंतिम तैयारी हेतु आधिकारिक पाठ्यक्रम एवं पाठ्यपुस्तकों का ही अनुसरण करें।







%20%E0%A4%95%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%BE%20-%209%E0%A4%B5%E0%A5%80%20_%20%E0%A4%B5%E0%A4%BF%E0%A4%B7%E0%A4%AF%20-%20%E0%A4%B8%E0%A4%82%E0%A4%B8%E0%A5%8D%E0%A4%95%E0%A5%83%E0%A4%A4%20-%201.webp)

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें